हरिवरासनम्  | Harivarasanam Lyrics In Sanskrit

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Tamil, Telugu.

हरिहरात्मज अष्टकम्

हरिवरासनं विश्वमोहनम्
हरिदधीश्वरं आराध्यपादुकम् ।
अरिविमर्दनं नित्यनर्तनम्
हरिहरात्मजं देवमाश्रये ॥ 1 ॥

शरणकीर्तनं भक्तमानसम्
भरणलोलुपं नर्तनालसम् ।
अरुणभासुरं भूतनायकम्
हरिहरात्मजं देवमाश्रये ॥ 2 ॥

प्रणयसत्यकं प्राणनायकम्
प्रणतकल्पकं सुप्रभाञ्चितम् ।
प्रणवमन्दिरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ 3 ॥

तुरगवाहनं सुन्दराननम्
वरगदायुधं वेदवर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ 4 ॥

त्रिभुवनार्चितं देवतात्मकम्
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिन्तितप्रदम्
हरिहरात्मजं देवमाश्रये ॥ 5 ॥

भवभयापहं भावुकावकम्
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणम्
हरिहरात्मजं देवमाश्रये ॥ 6 ॥

कलमृदुस्मितं सुन्दराननम्
कलभकोमलं गात्रमोहनम् ।
कलभकेसरीवाजिवाहनम्
हरिहरात्मजं देवमाश्रये ॥ 7 ॥

श्रितजनप्रियं चिन्तितप्रदम्
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनोहरं गीतलालसम्
हरिहरात्मजं देवमाश्रये ॥ 8 ॥

शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *