अय्यप्पा स्तोत्रम् | Ayyappa Stotram In Sanskrit
Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Tamil, Telugu.
अरुणोदयसङ्काशं नीलकुण्डलधारणम् ।
नीलाम्बरधरं देवं वन्देऽहं ब्रह्मनन्दनम् ॥ 1 ॥
चापबाणं वामहस्ते रौप्यवीत्रं च दक्षिणे । [चिन्मुद्रां दक्षिणकरे]
विलसत्कुण्डलधरं वन्देऽहं विष्णुनन्दनम् ॥ 2 ॥
व्याघ्रारूढं रक्तनेत्रं स्वर्णमालाविभूषणम् ।
वीरापट्टधरं देवं वन्देऽहं शम्भुनन्दनम् ॥ 3 ॥
किङ्किण्योड्यान भूतेशं पूर्णचन्द्रनिभाननम् ।
किरातरूप शास्तारं वन्देऽहं पाण्ड्यनन्दनम् ॥ 4 ॥
भूतभेतालसंसेव्यं काञ्चनाद्रिनिवासितम् ।
मणिकण्ठमिति ख्यातं वन्देऽहं शक्तिनन्दनम् ॥ 5 ॥
इति श्री अय्यप्प स्तोत्रम् ।