अय्यप्पा स्तोत्रम् | ayyappa stotram in marathi
Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.
अरुणोदयसंकाशं नीलकुंडलधारणम् ।
नीलांबरधरं देवं वंदेऽहं ब्रह्मनंदनम् ॥ 1 ॥
चापबाणं वामहस्ते रौप्यवीत्रं च दक्षिणे । [चिन्मुद्रां दक्षिणकरे]
विलसत्कुंडलधरं वंदेऽहं विष्णुनंदनम् ॥ 2 ॥
व्याघ्रारूढं रक्तनेत्रं स्वर्णमालाविभूषणम् ।
वीरापट्टधरं देवं वंदेऽहं शंभुनंदनम् ॥ 3 ॥
किंकिण्योड्यान भूतेशं पूर्णचंद्रनिभाननम् ।
किरातरूप शास्तारं वंदेऽहं पांड्यनंदनम् ॥ 4 ॥
भूतभेतालसंसेव्यं कांचनाद्रिनिवासितम् ।
मणिकंठमिति ख्यातं वंदेऽहं शक्तिनंदनम् ॥ 5 ॥
इति श्री अय्यप्प स्तोत्रम् ।