संतान गोपाल स्तोत्रम् | Santana Gopala Stotram Hindi

Also Read This In:- Bengali, Gujarati, English, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

श्रीशं कमलपत्राक्षं देवकीनंदनं हरिम् ।
सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ॥ 1 ॥

नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् ।
यशोदांकगतं बालं गोपालं नंदनंदनम् ॥ 2 ॥

अस्माकं पुत्रलाभाय गोविंदं मुनिवंदितम् ।
नमाम्यहं वासुदेवं देवकीनंदनं सदा ॥ 3 ॥

गोपालं डिंभकं वंदे कमलापतिमच्युतम् ।
पुत्रसंप्राप्तये कृष्णं नमामि यदुपुंगवम् ॥ 4 ॥

पुत्रकामेष्टिफलदं कंजाक्षं कमलापतिम् ।
देवकीनंदनं वंदे सुतसंप्राप्तये मम ॥ 5 ॥

पद्मापते पद्मनेत्र पद्मनाभ जनार्दन ।
देहि मे तनयं श्रीश वासुदेव जगत्पते ॥ 6 ॥

यशोदांकगतं बालं गोविंदं मुनिवंदितम् ।
अस्माकं पुत्र लाभाय नमामि श्रीशमच्युतम् ॥ 7 ॥

श्रीपते देवदेवेश दीनार्तिर्हरणाच्युत ।
गोविंद मे सुतं देहि नमामि त्वां जनार्दन ॥ 8 ॥

भक्तकामद गोविंद भक्तरक्ष शुभप्रद ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 9 ॥

रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा ।
भक्तमंदार पद्माक्ष त्वामहं शरणं गतः ॥ 10 ॥

देवकीसुत गोविंद वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 11 ॥

वासुदेव जगद्वंद्य श्रीपते पुरुषोत्तम ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 12 ॥

कंजाक्ष कमलानाथ परकारुणिकोत्तम ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 13 ॥

लक्ष्मीपते पद्मनाभ मुकुंद मुनिवंदित ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 14 ॥

कार्यकारणरूपाय वासुदेवाय ते सदा ।
नमामि पुत्रलाभार्थं सुखदाय बुधाय ते ॥ 15 ॥

राजीवनेत्र श्रीराम रावणारे हरे कवे ।
तुभ्यं नमामि देवेश तनयं देहि मे हरे ॥ 16 ॥

अस्माकं पुत्रलाभाय भजामि त्वां जगत्पते ।
देहि मे तनयं कृष्ण वासुदेव रमापते ॥ 17 ॥

श्रीमानिनीमानचोर गोपीवस्त्रापहारक ।
देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ 18 ॥

अस्माकं पुत्रसंप्राप्तिं कुरुष्व यदुनंदन ।
रमापते वासुदेव मुकुंद मुनिवंदित ॥ 19 ॥

वासुदेव सुतं देहि तनयं देहि माधव ।
पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ॥ 20 ॥

डिंभकं देहि श्रीकृष्ण आत्मजं देहि राघव ।
भक्तमंदार मे देहि तनयं नंदनंदन ॥ 21 ॥

नंदनं देहि मे कृष्ण वासुदेव जगत्पते ।
कमलानाथ गोविंद मुकुंद मुनिवंदित ॥ 22 ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ॥ 23 ॥

यशोदास्तन्यपानज्ञं पिबंतं यदुनंदनम् ।
वंदेऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ॥ 24 ॥

नंदनंदन देवेश नंदनं देहि मे प्रभो ।
रमापते वासुदेव श्रियं पुत्रं जगत्पते ॥ 25 ॥

पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव ।
अस्माकं दीनवाक्यस्य अवधारय श्रीपते ॥ 26 ॥

गोपाल डिंभ गोविंद वासुदेव रमापते ।
अस्माकं डिंभकं देहि श्रियं देहि जगत्पते ॥ 27 ॥

मद्वांछितफलं देहि देवकीनंदनाच्युत ।
मम पुत्रार्थितं धन्यं कुरुष्व यदुनंदन ॥ 28 ॥

याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसंपदम् ।
भक्तचिंतामणे राम कल्पवृक्ष महाप्रभो ॥ 29 ॥

आत्मजं नंदनं पुत्रं कुमारं डिंभकं सुतम् ।
अर्भकं तनयं देहि सदा मे रघुनंदन ॥ 30 ॥

वंदे संतानगोपालं माधवं भक्तकामदम् ।
अस्माकं पुत्रसंप्राप्त्यै सदा गोविंदमच्युतम् ॥ 31 ॥

ॐकारयुक्तं गोपालं श्रीयुक्तं यदुनंदनम् ।
क्लींयुक्तं देवकीपुत्रं नमामि यदुनायकम् ॥ 32 ॥

वासुदेव मुकुंदेश गोविंद माधवाच्युत ।
देहि मे तनयं कृष्ण रमानाथ महाप्रभो ॥ 33 ॥

राजीवनेत्र गोविंद कपिलाक्ष हरे प्रभो ।
समस्तकाम्यवरद देहि मे तनयं सदा ॥ 34 ॥

अब्जपद्मनिभ पद्मवृंदरूप जगत्पते ।
देहि मे वरसत्पुत्रं रमानायक माधव ॥ 35 ॥ (रूपनायक)

नंदपाल धरापाल गोविंद यदुनंदन ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 36 ॥

दासमंदार गोविंद मुकुंद माधवाच्युत ।
गोपाल पुंडरीकाक्ष देहि मे तनयं श्रियम् ॥ 37 ॥

यदुनायक पद्मेश नंदगोपवधूसुत ।
देहि मे तनयं कृष्ण श्रीधर प्राणनायक ॥ 38 ॥

अस्माकं वांछितं देहि देहि पुत्रं रमापते ।
भगवन् कृष्ण सर्वेश वासुदेव जगत्पते ॥ 39 ॥

रमाहृदयसंभार सत्यभामामनःप्रिय ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 40 ॥

चंद्रसूर्याक्ष गोविंद पुंडरीकाक्ष माधव ।
अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ॥ 41 ॥

कारुण्यरूप पद्माक्ष पद्मनाभसमर्चित ।
देहि मे तनयं कृष्ण देवकीनंदनंदन ॥ 42 ॥

देवकीसुत श्रीनाथ वासुदेव जगत्पते ।
समस्तकामफलद देहि मे तनयं सदा ॥ 43 ॥

भक्तमंदार गंभीर शंकराच्युत माधव ।
देहि मे तनयं गोपबालवत्सल श्रीपते ॥ 44 ॥

श्रीपते वासुदेवेश देवकीप्रियनंदन ।
भक्तमंदार मे देहि तनयं जगतां प्रभो ॥ 45 ॥

जगन्नाथ रमानाथ भूमिनाथ दयानिधे ।
वासुदेवेश सर्वेश देहि मे तनयं प्रभो ॥ 46 ॥

श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 47 ॥

दासमंदार गोविंद भक्तचिंतामणे प्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 48 ॥

गोविंद पुंडरीकाक्ष रमानाथ महाप्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 49 ॥

श्रीनाथ कमलपत्राक्ष गोविंद मधुसूदन ।
मत्पुत्रफलसिद्ध्यर्थं भजामि त्वां जनार्दन ॥ 50 ॥

स्तन्यं पिबंतं जननीमुखांबुजं
विलोक्य मंदस्मितमुज्ज्वलांगम् ।
स्पृशंतमन्यस्तनमंगुलीभिः
वंदे यशोदांकगतं मुकुंदम् ॥ 51 ॥

याचेऽहं पुत्रसंतानं भवंतं पद्मलोचन ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 52 ॥

अस्माकं पुत्रसंपत्तेश्चिंतयामि जगत्पते ।
शीघ्रं मे देहि दातव्यं भवता मुनिवंदित ॥ 53 ॥

वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम ।
कुरु मां पुत्रदत्तं च कृष्ण देवेंद्रपूजित ॥ 54 ॥

कुरु मां पुत्रदत्तं च यशोदाप्रियनंदन ।
मह्यं च पुत्रसंतानं दातव्यं भवता हरे ॥ 55 ॥

वासुदेव जगन्नाथ गोविंद देवकीसुत ।
देहि मे तनयं राम कौसल्याप्रियनंदन ॥ 56 ॥

पद्मपत्राक्ष गोविंद विष्णो वामन माधव ।
देहि मे तनयं सीताप्राणनायक राघव ॥ 57 ॥

कंजाक्ष कृष्ण देवेंद्रमंडित मुनिवंदित ।
लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ॥ 58 ॥

देहि मे तनयं राम दशरथप्रियनंदन ।
सीतानायक कंजाक्ष मुचुकुंदवरप्रद ॥ 59 ॥

विभीषणस्य या लंका प्रदत्ता भवता पुरा ।
अस्माकं तत्प्रकारेण तनयं देहि माधव ॥ 60 ॥

भवदीयपदांभोजे चिंतयामि निरंतरम् ।
देहि मे तनयं सीताप्राणवल्लभ राघव ॥ 61 ॥

राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद ।
देहि मे तनयं श्रीश कमलासनवंदित ॥ 62 ॥

राम राघव सीतेश लक्ष्मणानुज देहि मे ।
भाग्यवत्पुत्रसंतानं दशरथात्मज श्रीपते ॥ 63 ॥

देवकीगर्भसंजात यशोदाप्रियनंदन ।
देहि मे तनयं राम कृष्ण गोपाल माधव ॥ 64 ॥

कृष्ण माधव गोविंद वामनाच्युत शंकर ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 65 ॥

गोपबाल महाधन्य गोविंदाच्युत माधव ।
देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ 66 ॥

दिशतु दिशतु पुत्रं देवकीनंदनोऽयं
दिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम् ।
दिशतु दिशतु श्रीशो राघवो रामचंद्रो
दिशतु दिशतु पुत्रं वंशविस्तारहेतोः ॥ 67 ॥

दीयतां वासुदेवेन तनयोमत्प्रियः सुतः ।
कुमारो नंदनः सीतानायकेन सदा मम ॥ 68 ॥

राम राघव गोविंद देवकीसुत माधव ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 69 ॥

वंशविस्तारकं पुत्रं देहि मे मधुसूदन ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 70 ॥

ममाभीष्टसुतं देहि कंसारे माधवाच्युत ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 71 ॥

चंद्रार्ककल्पपर्यंतं तनयं देहि माधव ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 72 ॥

विद्यावंतं बुद्धिमंतं श्रीमंतं तनयं सदा ।
देहि मे तनयं कृष्ण देवकीनंदन प्रभो ॥ 73 ॥

नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् ।
मुकुंदं पुंडरीकाक्षं गोविंदं मधुसूदनम् ॥ 74 ॥

भगवन् कृष्ण गोविंद सर्वकामफलप्रद ।
देहि मे तनयं स्वामिन् त्वामहं शरणं गतः ॥ 75 ॥

स्वामिन् त्वं भगवन् राम कृष्ण माधव कामद ।
देहि मे तनयं नित्यं त्वामहं शरणं गतः ॥ 76 ॥

तनयं देहि गोविंद कंजाक्ष कमलापते ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 77 ॥

पद्मापते पद्मनेत्र प्रद्युम्नजनक प्रभो ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 78 ॥

शंखचक्रगदाखड्गशारंगपाणे रमापते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 79 ॥

नारायण रमानाथ राजीवपत्रलोचन ।
सुतं मे देहि देवेश पद्मपद्मानुवंदित ॥ 80 ॥

राम माधव गोविंद देवकीवरनंदन ।
रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ॥ 81 ॥

देवकीसुत गोविंद वासुदेव जगत्पते ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 82 ॥

मुनिवंदित गोविंद रुक्मिणीवल्लभ प्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 83 ॥

गोपिकार्जितपंकेजमरंदासक्तमानस ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 84 ॥

रमाहृदयपंकेजलोल माधव कामद ।
ममाभीष्टसुतं देहि त्वामहं शरणं गतः ॥ 85 ॥

वासुदेव रमानाथ दासानां मंगलप्रद ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 86 ॥

कल्याणप्रद गोविंद मुरारे मुनिवंदित ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 87 ॥

पुत्रप्रद मुकुंदेश रुक्मिणीवल्लभ प्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 88 ॥

पुंडरीकाक्ष गोविंद वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 89 ॥

दयानिधे वासुदेव मुकुंद मुनिवंदित ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 90 ॥

पुत्रसंपत्प्रदातारं गोविंदं देवपूजितम् ।
वंदामहे सदा कृष्णं पुत्रलाभप्रदायिनम् ॥ 91 ॥

कारुण्यनिधये गोपीवल्लभाय मुरारये ।
नमस्ते पुत्रलाभार्थं देहि मे तनयं विभो ॥ 92 ॥

नमस्तस्मै रमेशाय रुक्मिणीवल्लभाय ते ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 93 ॥

नमस्ते वासुदेवाय नित्यश्रीकामुकाय च ।
पुत्रदाय च सर्पेंद्रशायिने रंगशायिने ॥ 94 ॥

रंगशायिन् रमानाथ मंगलप्रद माधव ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 95 ॥

दासस्य मे सुतं देहि दीनमंदार राघव ।
सुतं देहि सुतं देहि पुत्रं देहि रमापते ॥ 96 ॥

यशोदातनयाभीष्टपुत्रदानरतः सदा ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 97 ॥

मदिष्टदेव गोविंद वासुदेव जनार्दन ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 98 ॥

नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजापते ।
भगवंस्त्वत्कृपायाश्च वासुदेवेंद्रपूजित ॥ 99 ॥

यः पठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत् ।
श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ॥ 100 ॥

जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् ।
ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः ॥ 101 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *