राहु कवचम् | Rahu Kavacham In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ध्यानम् 

राहुं चतुर्भुजं चर्मशूलखड्गवराङ्गिनम्
कृष्णाम्बरधरं नीलं कृष्णगन्धानुलेपनम् ।
गोमेधिकविभूषं च विचित्रमकुटं फणिम्
कृष्णसिंहरथारूढं मेरुं चैवाप्रदक्षिणम् ॥

प्रणमामि सदा राहुं सर्पाकारं किरीटिनम् ।
सैंहिकेयं करालास्यं भक्तानामभयप्रदम् ॥ १ ॥

कवचम् 

नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे मेऽर्धशरीरवान् ॥ २ ॥

नासिकां मे करालास्यः शूलपाणिर्मुखं मम ।
जिह्वां मे सिंहिकासूनुः कण्ठं मे कष्टनाशनः ॥ ३ ॥

भुजङ्गेशो भुजौ पातु नीलमाल्यः करौ मम ।
पातु वक्षौ तमोमूर्तिः पातु नाभिं विधुन्तुदः ॥ ४ ॥

कटिं मे विकटः पातु ऊरू मेऽसुरपूजितः ।
स्वर्भानुर्जानुनी पातु जङ्घे मे पातु चऽव्ययः ॥ ५ ॥

गुल्फौ ग्रहाधिपः पातु नीलचन्दनभूषितः ।
पादौ नीलाम्बरः पातु सर्वाङ्गं सिंहिकासुतः ॥ ६ ॥

राहोरिदं कवचमीप्सितवस्तुदं यो
भक्त्या पठत्यनुदिनं नियतश्शुचिस्सन् ।
प्राप्नोति कीर्तिमतुलां च श्रियं समृद्धि-
मारोग्यमायुर्विजयावसित प्रसादात् ॥ ७ ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *