श्री अंगारक अष्टोत्तर शतनाम स्तोत्रम्  |  Angaraka Ashtottara Shatanama Stotram In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

महीसुतो महाभागो मंगलो मंगलप्रदः
महावीरो महाशूरो महाबलपराक्रमः ॥ 1 ॥

महारौद्रो महाभद्रो माननीयो दयाकरः
मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ 2 ॥

सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः
वक्रस्तंभादिगमनो वरेण्यो वरदः सुखी ॥ 3 ॥

वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः
नक्षत्रचक्रसंचारी क्षत्रपः क्षात्रवर्जितः ॥ 4 ॥

क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः
अक्षीणफलदः चक्षुर्गोचरश्शुभलक्षणः ॥ 5 ॥

वीतरागो वीतभयो विज्वरो विश्वकारणः
नक्षत्रराशिसंचारो नानाभयनिकृंतनः ॥ 6 ॥

कमनीयो दयासारः कनत्कनकभूषणः
भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ 7 ॥

शत्रुहंता शमोपेतः शरणागतपोषकः
साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥ 8 ॥

दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः
दुश्चेष्टवारको दुःखभंजनो दुर्धरो हरिः ॥ 9 ॥

दुःस्वप्नहंता दुर्धर्षो दुष्टगर्वविमोचकः
भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ 10 ॥

रक्तांबरो रक्तवपुर्भक्तपालनतत्परः
चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥ 11 ॥

शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः
तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥ 12 ॥

तप्तकांचनसंकाशो रक्तकिंजल्कसंनिभः
गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ 13 ॥

असृजंगारकोऽवंतीदेशाधीशो जनार्दनः
सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिङ्मुखः ॥ 14 ॥

त्रिकोणमंडलगतः त्रिदशाधिपसन्नुतः
शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ 15 ॥

मेषवृश्चिकराशीशो मेधावी मितभाषणः
सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ 16 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *