अङ्गारक अष्टोत्तर शत नाम स्तोत्रम् | Angaraka Ashtottara Shatanama Stotram In Sanskrit
Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Tamil, Telugu.
महीसुतो महाभागो मङ्गलो मङ्गलप्रदः
महावीरो महाशूरो महाबलपराक्रमः ॥ 1 ॥
महारौद्रो महाभद्रो माननीयो दयाकरः
मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ 2 ॥
सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः
वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥ 3 ॥
वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः
नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥ 4 ॥
क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः
अक्षीणफलदः चक्षुर्गोचरश्शुभलक्षणः ॥ 5 ॥
वीतरागो वीतभयो विज्वरो विश्वकारणः
नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥ 6 ॥
कमनीयो दयासारः कनत्कनकभूषणः
भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ 7 ॥
शत्रुहन्ता शमोपेतः शरणागतपोषकः
साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥ 8 ॥
दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः
दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥ 9 ॥
दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः
भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ 10 ॥
रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः
चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥ 11 ॥
शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः
तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥ 12 ॥
तप्तकाञ्चनसङ्काशो रक्तकिञ्जल्कसन्निभः
गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ 13 ॥
असृजङ्गारकोऽवन्तीदेशाधीशो जनार्दनः
सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिङ्मुखः ॥ 14 ॥
त्रिकोणमण्डलगतः त्रिदशाधिपसन्नुतः
शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ 15 ॥
मेषवृश्चिकराशीशो मेधावी मितभाषणः
सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ 16 ॥