शरभेशाष्टकम् | Sharabha Ashtakam In Sanskrit

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Tamil, Telugu.

श्री शिव उवाच

शृणु देवि महागुह्यं परं पुण्यविवर्धनं .
शरभेशाष्टकं मन्त्रं वक्ष्यामि तव तत्त्वतः ॥

ऋषिन्यासादिकं यत्तत्सर्वपूर्ववदाचरेत् .
ध्यानभेदं विशेषेण वक्ष्याम्यहमतः शिवे ॥

ध्यानं

ज्वलनकुटिलकेशं सूर्यचन्द्राग्निनेत्रं
निशिततरनखाग्रोद्धूतहेमाभदेहम् ।
शरभमथ मुनीन्द्रैः सेव्यमानं सिताङ्गं
प्रणतभयविनाशं भावयेत्पक्षिराजम् ॥

अथ स्तोत्रं

देवादिदेवाय जगन्मयाय शिवाय नालीकनिभाननाय ।
शर्वाय भीमाय शराधिपाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 1 ॥

हराय भीमाय हरिप्रियाय भवाय शान्ताय परात्पराय ।
मृडाय रुद्राय विलोचनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 2 ॥

शीतांशुचूडाय दिगम्बराय सृष्टिस्थितिध्वंसनकारणाय ।
जटाकलापाय जितेन्द्रियाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 3 ॥

कलङ्ककण्ठाय भवान्तकाय कपालशूलात्तकराम्बुजाय ।
भुजङ्गभूषाय पुरान्तकाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 4 ॥

शमादिषट्काय यमान्तकाय यमादियोगाष्टकसिद्धिदाय ।
उमाधिनाथाय पुरातनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 5 ॥

घृणादिपाशाष्टकवर्जिताय खिलीकृतास्मत्पथि पूर्वगाय ।
गुणादिहीनाय गुणत्रयाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 6 ॥

कालाय वेदामृतकन्दलाय कल्याणकौतूहलकारणाय ।
स्थूलाय सूक्ष्माय स्वरूपगाय नमोऽस्तु तुस्तु तुभ्यं शरभेश्वराय ॥ 7 ॥

पञ्चाननायानिलभास्कराय पञ्चाशदर्णाद्यपराक्षयाय ।
पञ्चाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 8 ॥

इति श्री शरभेशाष्टकम् ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *