Sharabha Ashtakam In English
Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.
श्री शिव उवाच
शृणु देवि महागुह्यं परं पुण्यविवर्धनं .
शरभेशाष्टकं मंत्रं वक्ष्यामि तव तत्त्वतः ॥
ऋषिन्यासादिकं यत्तत्सर्वपूर्ववदाचरेत् .
ध्यानभेदं विशेषेण वक्ष्याम्यहमतः शिवे ॥
ध्यानं
ज्वलनकुटिलकेशं सूर्यचंद्राग्निनेत्रं
निशिततरनखाग्रोद्धूतहेमाभदेहम् ।
शरभमथ मुनींद्रैः सेव्यमानं सितांगं
प्रणतभयविनाशं भावयेत्पक्षिराजम् ॥
अथ स्तोत्रं
देवादिदेवाय जगन्मयाय शिवाय नालीकनिभाननाय ।
शर्वाय भीमाय शराधिपाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 1 ॥
हराय भीमाय हरिप्रियाय भवाय शांताय परात्पराय ।
मृडाय रुद्राय विलोचनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 2 ॥
शीतांशुचूडाय दिगंबराय सृष्टिस्थितिध्वंसनकारणाय ।
जटाकलापाय जितेंद्रियाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 3 ॥
कलंककंठाय भवांतकाय कपालशूलात्तकरांबुजाय ।
भुजंगभूषाय पुरांतकाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 4 ॥
शमादिषट्काय यमांतकाय यमादियोगाष्टकसिद्धिदाय ।
उमाधिनाथाय पुरातनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 5 ॥
घृणादिपाशाष्टकवर्जिताय खिलीकृतास्मत्पथि पूर्वगाय ।
गुणादिहीनाय गुणत्रयाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 6 ॥
कालाय वेदामृतकंदलाय कल्याणकौतूहलकारणाय ।
स्थूलाय सूक्ष्माय स्वरूपगाय नमोऽस्तु तुस्तु तुभ्यं शरभेश्वराय ॥ 7 ॥
पंचाननायानिलभास्कराय पंचाशदर्णाद्यपराक्षयाय ।
पंचाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 8 ॥
इति श्री शरभेशाष्टकम् ॥