धुण्ढिराज भुजङ्ग प्रयात स्तोत्रम् | Dhundhiraja Bhujanga Prayata Stotram In Sanskrit

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Tamil, Telugu.

उमाङ्गोद्भवं दन्तिवक्त्रं गणेशं
भुजाकङ्कणैः शोभिनं धूम्रकेतुम् ।
गले हारमुक्तावलीशोभितं तं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ 1 ॥

गणेशं वदेत्तं स्मरेत् सर्वकार्ये
स्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् ।
मनश्चिन्तितं कार्यमेवेषु सिद्ध्ये-
-न्नमो बुद्धिकान्तं गणेशं नमस्ते ॥ 2 ॥

महासुन्दरं वक्त्रचिह्नं विराटं
चतुर्धाभुजं चैकदन्तैकवर्णम् ।
इदं देवरूपं गणं सिद्धिनाथं
नमो भालचन्द्रं गणेशं नमस्ते ॥ 3 ॥

ससिन्दूरसत्कुङ्कुमैस्तुल्यवर्णः
स्तुतैर्मोदकैः प्रीयते विघ्नराजः ।
महासङ्कटच्छेदकं धूम्रकेतुं
नमो गौरिपुत्रं गणेशं नमस्ते ॥ 4 ॥

यथा पातकच्छेदकं विष्णुनाम
तथा ध्यायतां शङ्करं पापनाशः ।
यथा पूजिते षण्मुखे शोकनाशो
नमो विघ्ननाशं गणेशं नमस्ते ॥ 5 ॥

सदा सर्वदा ध्यायतामेकदन्तं
सुसिन्दूरकं पूजितं रक्तपुष्पैः ।
सदा चर्चितं चन्दनैः कुङ्कुमाक्तं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ 6 ॥

नमो गौरिकागर्भजापत्य तुभ्यं
नमो ज्ञानरूपिन्नमः सिद्धिकान्त ।
नमो ध्येयपूज्याय हे बुद्धिनाथ
सुरास्त्वां भजन्ते गणेशं नमस्ते ॥ 7 ॥

भुजङ्गप्रयातं पठेद्यस्तु भक्त्या
प्रभाते जपेन्नित्यमेकाग्रचित्तः ।
क्षयं यान्ति विघ्ना दिशः शोभयन्तं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ 8 ॥

इति श्रीढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम् ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *