नवग्रह स्तोत्रम् | Navagraha Stotram In Marathi

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

नवग्रह ध्यान श्लोकम्
आदित्याय च सोमाय मंगलाय बुधाय च ।
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥

रविः
जपाकुसुम संकाशं काश्यपेयं महाद्युतिम् ।
तमोऽरिं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ॥

चंद्रः
दधिशंख तुषाराभं क्षीरार्णव समुद्भवम् (क्षीरोदार्णव संभवम्) ।
नमामि शशिनं सोमं शंभो-र्मकुट भूषणम् ॥

कुजः
धरणी गर्भ संभूतं विद्युत्कांति समप्रभम् ।
कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम् ॥

बुधः
प्रियंगु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ।
सौम्यं सौम्य (सत्व) गुणोपेतं तं बुधं प्रणमाम्यहम् ॥

गुरुः
देवानां च ऋषीणां च गुरुं कांचनसन्निभम् ।
बुद्धिमंतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥

शुक्रः
हिमकुंद मृणालाभं दैत्यानं परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥

शनिः
नीलांजन समाभासं रविपुत्रं यमाग्रजम् ।
छाया मार्तांड संभूतं तं नमामि शनैश्चरम् ॥

राहुः
अर्धकायं महावीरं चंद्रादित्य विमर्धनम् ।
सिंहिका गर्भ संभूतं तं राहुं प्रणमाम्यहम् ॥

केतुः
पलाश पुष्प संकाशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥

फलश्रुतिः
इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः ।
दिवा वा यदि वा रात्रौ विघ्नशांति-र्भविष्यति ॥

नरनारी-नृपाणां च भवे-द्दुःस्वप्न-नाशनम् ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ॥

ग्रहनक्षत्रजाः पीडास्तस्कराग्नि समुद्भवाः ।
तास्सर्वाः प्रशमं यांति व्यासो ब्रूते न संशयः ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *