वाराही स्तोत्रम् | Varahi Stotram In Sanskrit

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Tamil, Telugu.

नमोऽस्तु देवी वाराही जयैङ्कारस्वरूपिणि ।
जपित्वा भूमिरूपेण नमो भगवती प्रिये ॥ 1 ॥

जय क्रोडास्तु वाराही देवी त्वं च नमाम्यहम् ।
जय वाराहि विश्वेशी मुख्यवाराहि ते नमः ॥ 2 ॥

मुख्यवाराहि वन्दे त्वां अन्धे अन्धिनि ते नमः ।
सर्वदुष्टप्रदुष्टानां वाक्‍स्तम्भनकरी नमः ॥ 3 ॥

नमः स्तम्भिनि स्तम्भे त्वां जृम्भे जृम्भिणि ते नमः ।
रुन्धे रुन्धिनि वन्दे त्वां नमो देवी तु मोहिनी ॥ 4 ॥

स्वभक्तानां हि सर्वेषां सर्वकामप्रदे नमः ।
बाह्वोः स्तम्भकरी वन्दे त्वां जिह्वास्तम्भकारिणी ॥ 5 ॥

स्तम्भनं कुरु शत्रूणां कुरु मे शत्रुनाशनम् ।
शीघ्रं वश्यं च कुरुते योऽग्नौ वाचात्मिके नमः ॥ 6 ॥

ठचतुष्टयरूपे त्वां शरणं सर्वदा भजे ।
होमात्मके फड्रूपेण जय आद्यानने शिवे ॥ 7 ॥

देहि मे सकलान् कामान् वाराही जगदीश्वरी ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 8 ॥

इदमाद्यानना स्तोत्रं सर्वपापविनाशनम् ।
पठेद्यः सर्वदा भक्त्या पातकैर्मुच्यते तथा ॥ 9 ॥

लभन्ते शत्रवो नाशं दुःखरोगापमृत्यवः ।
महदायुष्यमाप्नोति अलक्ष्मीर्नाशमाप्नुयात् ॥ 10 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *