सूर्य मंडल स्तोत्रम् | Surya Mandala Stotram In Marathi

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

नमोऽस्तु सूर्याय सहस्ररश्मये
सहस्रशाखान्वित संभवात्मने ।
सहस्रयोगोद्भव भावभागिने
सहस्रसंख्यायुधधारिणे नमः ॥ 1 ॥

यन्मंडलं दीप्तिकरं विशालं
रत्नप्रभं तीव्रमनादिरूपम् ।
दारिद्र्यदुःखक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 2 ॥

यन्मंडलं देवगणैः सुपूजितं
विप्रैः स्तुतं भावनमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 3 ॥

यन्मंडलं ज्ञानघनंत्वगम्यं
त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।
समस्ततेजोमयदिव्यरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 4 ॥

यन्मंडलं गूढमतिप्रबोधं
धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्वपापक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 5 ॥

यन्मंडलं व्याधिविनाशदक्षं
यदृग्यजुः सामसु संप्रगीतम् ।
प्रकाशितं येन च भूर्भुवः स्वः
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 6 ॥

यन्मंडलं वेदविदो वदंति
गायंति यच्चारणसिद्धसंघाः ।
यद्योगिनो योगजुषां च संघाः
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 7 ॥

यन्मंडलं सर्वजनैश्च पूजितं
ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकालाद्यमनादिरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 8 ॥

यन्मंडलं विष्णुचतुर्मुखाख्यं
यदक्षरं पापहरं जनानाम् ।
यत्कालकल्पक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 9 ॥

यन्मंडलं विश्वसृजं प्रसिद्धं
उत्पत्तिरक्षप्रलय प्रगल्भम् ।
यस्मिन् जगत्संहरतेऽखिलं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 10 ॥

यन्मंडलं सर्वगतस्य विष्णोः
आत्मा परं‍धाम विशुद्धतत्त्वम् ।
सूक्ष्मांतरैर्योगपथानुगम्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 11 ॥

यन्मंडलं वेदविदोपगीतं
यद्योगिनां योग पथानुगम्यम् ।
तत्सर्व वेद्यं प्रणमामि सूर्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 12 ॥

सूर्यमंडलसु स्तोत्रं यः पठेत्सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥

इति श्री भविष्योत्तरपुराणे श्री कृष्णार्जुन संवादे सूर्यमंडल स्तोत्रम् ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *