सर्प सूक्तम् | Sarpa Suktam In Marathi

Also Read This In:- Bengali, Gujarati, English, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वी मनु॑ ।
ये अं॒तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ । (तै.सं.4.2.3)

ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।

या इष॑वो यातु॒धाना॑नां॒-येँ वा॒ वन॒स्पती॒ग्ं॒‍ रनु॑ ।
ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।

इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम्᳚ ।
आ॒श्रे॒षा येषा॑मनु॒यंति॒ चेतः॑ ।
ये अं॒तरि॑क्षं पृथि॒वीं क्षि॒यंति॑ ।
ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।
ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ।
ये दिवं॑ दे॒वीमनु॑स॒न्चरं॑ति ।
येषा॑माश्रे॒षा अ॑नु॒यंति॒ कामम्᳚ ।
तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ॥ 2 ॥

नि॒घृष्वै॑रस॒मायु॑तैः ।
कालैर्​हरित्व॑माप॒न्नैः ।
इंद्राया॑हि स॒हस्र॑युक् ।
अ॒ग्निर्वि॒भ्राष्टि॑वसनः ।
वा॒युश्वेत॑सिकद्रु॒कः ।
सं॒​वँ॒थ्स॒रो वि॑षू॒वर्णैः᳚ ।
नित्या॒स्तेऽनुच॑रास्त॒व ।
सुब्रह्मण्योग्ं सुब्रह्मण्योग्ं सु॑ब्रह्मण्योग्म् ॥ 3 ॥

ॐ शांतिः शांतिः शांतिः ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *