शनि स्तोत्रं दशरथ कृतम् | Dashratha Krit Shani Stotram In Marathi

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

नमः कृष्णाय नीलाय शिखिखंडनिभाय च ।
नमो नीलमधूकाय नीलोत्पलनिभाय च ॥ 1 ॥

नमो निर्मांसदेहाय दीर्घश्रुतिजटाय च ।
नमो विशालनेत्राय शुष्कोदर भयानक ॥ 2 ॥

नमः पौरुषगात्राय स्थूलरोमाय ते नमः ।
नमो नित्यं क्षुधार्ताय नित्यतृप्ताय ते नमः ॥ 3 ॥

नमो घोराय रौद्राय भीषणाय करालिने ।
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते ॥ 4 ॥

नमस्ते घोररूपाय दुर्निरीक्ष्याय ते नमः ।
नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते ॥ 5 ॥

सूर्यपुत्त्र नमस्तेऽस्तु भास्वरोभयदायिने ।
अधोदृष्टे नमस्तेऽस्तु संवर्तक नमोऽस्तु ते ॥ 6 ॥

नमो मंदगते तुभ्यं निष्प्रभाय नमोनमः ।
तपसा ज्ञानदेहाय नित्ययोगरताय च ॥ 7 ॥

ज्ञानचक्षुर्नमस्तेऽस्तु काश्यपात्मजसूनवे ।
तुष्टो ददासि राज्यं त्वं क्रुद्धो हरसि तत्‍ क्षणात् ॥ 8 ॥

देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ।
त्वयावलोकितास्सौरे दैन्यमाशुव्रजंतिते ॥ 9 ॥

ब्रह्मा शक्रोयमश्चैव मुनयः सप्ततारकाः ।
राज्यभ्रष्टाः पतंतीह तव दृष्ट्याऽवलोकितः ॥ 10 ॥

त्वयाऽवलोकितास्तेऽपि नाशं यांति समूलतः ।
प्रसादं कुरु मे सौरे प्रणत्वाहित्वमर्थितः ॥ 11 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *