सुदर्शन षट्कम् | Sudarshana Shatkam In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

सहस्रादित्यसंकाशं सहस्रवदनं परम् ।
सहस्रदोस्सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ 1 ॥

हसंतं हारकेयूर मकुटांगदभूषणैः ।
शोभनैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥ 2 ॥

स्राकारसहितं मंत्रं वदनं शत्रुनिग्रहम् ।
सर्वरोगप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ 3 ॥

रणत्किंकिणिजालेन राक्षसघ्नं महाद्भुतम् ।
व्युप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ 4 ॥

हुंकारभैरवं भीमं प्रणातार्तिहरं प्रभुम् ।
सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ 5 ॥

फट्कारास्तमनिर्देश्य दिव्यमंत्रेणसंयुतम् ।
शिवं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ 6 ॥

एतैष्षड्भिः स्तुतो देवः प्रसन्नः श्रीसुदर्शनः ।
रक्षां करोति सर्वात्मा सर्वत्र विजयी भवेत् ॥ 7 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *