पशुपत्यष्टकम् | Pashupati Ashtakam In Hindi

Also Read This In:- English, Kannada, Tamil, Telugu.

पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् ।
प्रणत भक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥ १ ॥

न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥ २ ॥

मुरजडिण्डिमवाद्य विलक्षणं मधुर पञ्चम नाद विशारदम् ।
प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् ॥ ३ ॥

शरणदं सुखदं शरणान्वितं शिवशिवेति शिवेति नतं नृणाम् ।
अभयदं करुणावरुणालयं भजते रे मनुजा गिरिजापतिम् ॥ ४ ॥

नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं भजते रे मनुजा गिरिजापतिम् ॥ ५ ॥

मदविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम् ।
प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् ॥ ६ ॥

मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम् ।
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ॥ ७ ॥

हरिविरञ्चि सुराधिपपूजितं यम जनेश धनेश नमस्कृतम् ।
त्रिनयनं भूवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम् ॥ ८ ॥

पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा ।
पठति सम्शृणुते मनुजस्सदा शिवपुरिं वसते लभते मुदम् ॥ ९ ॥

इति श्री पशुपत्यष्टकम् पूर्ण ||

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *