दुर्गा अष्टकम् | Durga Ashtakam In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Odia, Sanskrit, Tamil, Telugu.

दुर्गे परेशि शुभदेशि परात्परेशि,

वन्द्ये महेशदयिते करूणार्णवेशि ।

स्तुत्ये स्वधे सकलतापहरे सुरेशि,

कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥

दिव्ये नुते श्रुतिशतैर्विमले भवेशि,

कन्दर्पदाराशतसुन्दरि माधवेशि ।

मेधे गिरीशतनये नियते शिवेशि,

कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ २॥

रासेश्वरि प्रणततापहरे कुलेशि,

धर्मप्रिये भयहरे वरदाग्रगेशि ।

वाग्देवते विधिनुते कमलासनेशि,

कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि ॥ ३॥

पूज्ये महावृषभवाहिनि मंगलेशि,

पद्मे दिगम्बरि महेश्वरि काननेशि ।

रम्येधरे सकलदेवनुते गयेशि,

कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ४॥

श्रद्धे सुराऽसुरनुते सकले जलेशि,

गंगे गिरीशदयिते गणनायकेशि ।

दक्षे स्मशाननिलये सुरनायकेशि,

कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ५॥

तारे कृपार्द्रनयने मधुकैटभेशि,

विद्येश्वरेश्वरि यमे निखलाक्षरेशि ।

ऊर्जे चतुःस्तनि सनातनि मुक्तकेशि,

कृष्णस्तुते कुरु कृपां ललितऽखिलेशि ॥ ६॥

मोक्षेऽस्थिरे त्रिपुरसुन्दरिपाटलेशि,

माहेश्वरि त्रिनयने प्रबले मखेशि ।

तृष्णे तरंगिणि बले गतिदे ध्रुवेशि,

कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ७॥

विश्वम्भरे सकलदे विदिते जयेशि,

विन्ध्यस्थिते शशिमुखि क्षणदे दयेशि ।

मातः सरोजनयने रसिके स्मरेशि,

कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ८॥

दुर्गाष्टकं पठति यः प्रयतः प्रभाते,

सर्वार्थदं हरिहरादिनुतां वरेण्यां ।

दुर्गां सुपूज्य महितां विविधोपचारैः,

प्राप्नोति वांछितफलं न चिरान्मनुष्यः ॥ ९॥

और पढ़े

दुर्गा देवी कवच

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *