चाक्षुषोपनिषद् (चक्षुष्मती विद्या) | Chakshushopanishad Chakshushmati In Hindi

Also Read This In:- Bengali, Gujarati, English, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

अस्याः चाक्षुषीविद्यायाः अहिर्बुध्न्य ऋषिः । गायत्री छंदः । सूर्यो देवता । चक्षुरोगनिवृत्तये जपे विनियोगः ।

ॐ चक्षुश्चक्षुश्चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितं चक्षुरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाहं अंधो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।

ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः करुणाकरायाऽमृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्यायाक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः ।

य इमां चक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते न तस्य अक्षिरोगो भवति । न तस्य कुले अंधो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ।

विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपंतं सहस्ररश्मिः शतधावर्तमानः । पुरः प्रजानामुदयत्येष सूर्यः ।

ॐ नमो भगवते आदित्याय अक्षितेजसे अहो वाहिनि वाहिनि स्वाहा ।
[ॐ नमो भगवते आदित्याय सूर्यायाहो वाहिन्यहोवाहिनी स्वाहा ।]

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *