केतु कवच | Ketu Kavacham In Hindi
Also Read This In:- Bengali, English, Gujarati, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.
ध्यानम्
धूम्रवर्णं ध्वजाकारं द्विभुजं वरदांगदम्
चित्राम्बरधरं केतुं चित्रगन्धानुलेपनम् ।
वैडूर्याभरणं चैव वैडूर्य मकुटं फणिम्
चित्रंकफाधिकरसं मेरुं चैवाप्रदक्षिणम् ॥
केतुं करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा देवं ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥
कवच
चित्रवर्णः शिरः पातु फालं मे धूम्रवर्णकः ।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥ २ ॥
घ्राणं पातु सुवर्णाभो द्विभुजं सिंहिकासुतः ।
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥ ३ ॥
बाहू पातु सुरश्रेष्ठः कुक्षिं पातु महोरगः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४ ॥
ऊरू पातु महाशीर्षो जानुनी च प्रकोपनः ।
पातु पादौ च मे रौद्रः सर्वाङ्गं रविमर्दकः ॥ ५ ॥
इदं च कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वदुःखविनाशं च सत्यमेतन्नसंशयः ॥ ६ ॥