कनकधारा स्तोत्रम् | Kanakdhara Strotram in Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

वन्दे वन्दारु मन्दारमिन्दिरानन्द कन्दलं
अमन्दानन्द सन्दोह बन्धुरं सिन्धुराननम्

अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् |
अङ्गीकृताखिल विभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ‖ 1 ‖

मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि |
मालादृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागर सम्भवा याः ‖ 2 ‖

आमीलिताक्षमधिग्यम मुदा मुकुन्दम्
आनन्दकन्दमनिमेषमनङ्ग तन्त्रं |
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवन्मम भुजङ्ग शयाङ्गना याः ‖ 3 ‖

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति |
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालया याः ‖ 4 ‖

कालाम्बुदालि ललितोरसि कैटभारेः
धाराधरे स्फुरति या तटिदङ्गनेव |
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दना याः ‖ 5 ‖

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन |
मय्यापतेत्तदिह मन्थरमीक्षणार्थं
मन्दालसं च मकरालय कन्यका याः ‖ 6 ‖

विश्वामरेन्द्र पद विभ्रम दानदक्षम्
आनन्दहेतुरधिकं मुरविद्विषोऽपि |
ईषन्निषीदतु मयि क्षणमीक्षणार्थं
इन्दीवरोदर सहोदरमिन्दिरा याः ‖ 7 ‖

इष्टा विशिष्टमतयोपि यया दयार्द्र
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते |
दृष्टिः प्रहृष्ट कमलोदर दीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्कर विष्टरा याः ‖ 8 ‖

दद्याद्दयानु पवनो द्रविणाम्बुधारां
अस्मिन्नकिञ्चन विहङ्ग शिशौ विषण्णे |
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायण प्रणयिनी नयनाम्बुवाहः ‖ 9 ‖

गीर्देवतेति गरुडध्वज सुन्दरीति
शाकम्बरीति शशिशेखर वल्लभेति |
सृष्टि स्थिति प्रलय केलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ‖ 10 ‖

श्रुत्यै नमोऽस्तु शुभकर्म फलप्रसूत्यै
रत्यै नमोऽस्तु रमणीय गुणार्णवायै |
शक्त्यै नमोऽस्तु शतपत्र निकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तम वल्लभायै ‖ 11 ‖

नमोऽस्तु नालीक निभाननायै
नमोऽस्तु दुग्धोदधि जन्मभूम्यै |
नमोऽस्तु सोमामृत सोदरायै
नमोऽस्तु नारायण वल्लभायै ‖ 12 ‖

नमोऽस्तु हेमाम्बुज पीठिकायै
नमोऽस्तु भूमण्डल नायिकायै |
नमोऽस्तु देवादि दयापरायै
नमोऽस्तु शार्ङ्गायुध वल्लभायै ‖ 13 ‖

नमोऽस्तु देव्यै भृगुनन्दनायै
नमोऽस्तु विष्णोरुरसि स्थितायै |
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदर वल्लभायै ‖ 14 ‖

नमोऽस्तु कान्त्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै |
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मज वल्लभायै ‖ 15 ‖

सम्पत्कराणि सकलेन्द्रिय नन्दनानि
साम्राज्य दानविभवानि सरोरुहाक्षि |
त्वद्वन्दनानि दुरिता हरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ‖ 16 ‖

यत्कटाक्ष समुपासना विधिः
सेवकस्य सकलार्थ सम्पदः |
सन्तनोति वचनाङ्ग मानसैः
त्वां मुरारिहृदयेश्वरीं भजे ‖ 17 ‖

सरसिजनिलये सरोजहस्ते
धवलतमांशुक गन्धमाल्यशोभे |
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरी प्रसीदमह्यं ‖ 18 ‖

दिग्घस्तिभिः कनक कुम्भमुखावसृष्ट
स्वर्वाहिनी विमलचारुजलाप्लुताङ्गीम् |
प्रातर्नमामि जगतां जननीमशेष
लोकधिनाथ गृहिणीममृताब्धिपुत्रीं ‖ 19 ‖

कमले कमलाक्ष वल्लभे त्वं
करुणापूर तरङ्गितैरपाङ्गैः |
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृतिमं दयायाः ‖ 20 ‖

देवि प्रसीद जगदीश्वरि लोकमातः
कल्याणगात्रि कमलेक्षण जीवनाथे |
दारिद्र्यभीतिहृदयं शरणागतं मां
आलोकय प्रतिदिनं सदयैरपाङ्गैः ‖ 21 ‖

स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमां |
गुणाधिका गुरुतुर भाग्य भागिनः
भवन्ति ते भुवि बुध भाविताशयाः ‖ 22 ‖

सुवर्णधारा स्तोत्रं यच्छङ्कराचार्य निर्मितं
त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ‖

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ कनकधारा स्तोत्र सम्पूर्णम् ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *