श्री काशी विश्वना थस्तोत्रम् | kashi vishwanath Stotram In Marathi

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

कंठे यस्य लसत्करालगरलं गंगाजलं मस्तके
वामांगे गिरिराजराजतनया जाया भवानी सती ।
नंदिस्कंदगणाधिराजसहिता श्रीविश्वनाथप्रभुः
काशीमंदिरसंस्थितोऽखिलगुरुर्देयात्सदा मंगलम् ॥ 1॥

यो देवैरसुरैर्मुनींद्रतनयैर्गंधर्वयक्षोरगै-
र्नागैर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये ।
या गंगोत्तरवाहिनी परिसरे तीर्थेरसंख्यैर्वृता
सा काशी त्रिपुरारिराजनगरी देयात्सदा मंगलम् ॥ 2॥

तीर्थानां प्रवरा मनोरथकरी संसारपारापरा-
नंदा नंदिगणेश्वरैरुपहिता देवैरशेषैः स्तुता ।
या शंभोर्मणिकुंडलैककणिका विष्णोस्तपोदीर्घिका
सेयं श्रीमणिकर्णिका भगवती देयात्सदा मंगलम् ॥ 3॥

एषा धर्मपताकिनी तटरुहासेवावसन्नाकिनी
पश्यन्पातकिनी भगीरथतपःसाफल्यदेवाकिनी ।
प्रेमारूढपताकिनी गिरिसुता सा केकरास्वाकिनी
काश्यामुत्तरवाहिनी सुरनदी देयात्सदा मंगलम् ॥ 4॥

विघ्नावासनिवासकारणमहागंडस्थलालंबितः
सिंदूरारुणपुंजचंद्रकिरणप्रच्छादिनागच्छविः ।
श्रीविश्वेश्वरवल्लभो गिरिजया सानंदकानंदितः
स्मेरास्यस्तव ढुंढिराजमुदितो देयात्सदा मंगलम् ॥। 5॥ ।
केदारः कलशेश्वरः पशुपतिर्धर्मेश्वरो मध्यमो
ज्येष्ठेशो पशुपश्च कंदुकशिवो विघ्नेश्वरो जंबुकः ।
चंद्रेशो ह्यमृतेश्वरो भृगुशिवः श्रीवृद्धकालेश्वरो
मध्येशो मणिकर्णिकेश्वरशिवो देयात्सदा मंगलम् ॥ 6॥

गोकर्णस्त्वथ भारभूतनुदनुः श्रीचित्रगुप्तेश्वरो
यक्षेशस्तिलपर्णसंगमशिवो शैलेश्वरः कश्यपः ।
नागेशोऽग्निशिवो निधीश्वरशिवोऽगस्तीश्वरस्तारक-
ज्ञानेशोऽपि पितामहेश्वरशिवो देयात्सदा मंगलम् ॥ 7॥

ब्रह्मांडं सकलं मनोषितरसै रत्नैः पयोभिर्हरं
खेलैः पूरयते कुटुंबनिलयान् शंभोर्विलासप्रदा ।
नानादिव्यलताविभूषितवपुः काशीपुराधीश्वरी
श्रीविश्वेश्वरसुंदरी भगवती देयात्सदा मंगलम् ॥ 8॥

या देवी महिषासुरप्रमथनी या चंडमुंडापहा
या शुंभासुररक्तबीजदमनी शक्रादिभिः संस्तुता ।
या शूलासिधनुःशराभयकरा दुर्गादिसंदक्षिणा-
माश्रित्याश्रितविघ्नशंसमयतु देयात्सदा मंगलम् ॥ 9॥

आद्या श्रीर्विकटा ततस्तु विरजा श्रीमंगला पार्वती
विख्याता कमला विशालनयना ज्येष्ठा विशिष्टानना ।
कामाक्षी च हरिप्रिया भगवती श्रीघंटघंटादिका
मौर्या षष्टिसहस्रमातृसहिता देयात्सदा मंगलम् ॥ 10॥

आदौ पंचनदं प्रयागमपरं केदारकुंडं कुरु-
क्षेत्रं मानसकं सरोऽमृतजलं शावस्य तीर्थं परम् ।
मत्स्योदर्यथ दंडखांडसलिलं मंदाकिनी जंबुकं
घंटाकर्णसमुद्रकूपसहितो देयात्सदा मंगलम् ॥ 11॥

रेवाकुंडजलं सरस्वतिजलं दुर्वासकुंडं ततो
लक्ष्मीतीर्थलवांकुशस्य सलिलं कंदर्पकुंडं तथा ।
दुर्गाकुंडमसीजलं हनुमतः कुंडप्रतापोर्जितः
प्रज्ञानप्रमुखानि वः प्रतिदिनं देयात्सदा मंगलम् ॥ 12॥

आद्यः कूपवरस्तु कालदमनः श्रीवृद्धकूपोऽपरो
विख्यातस्तु पराशरस्तु विदितः कूपः सरो मानसः ।
जैगीषव्यमुनेः शशांकनृपतेः कूपस्तु धर्मोद्भवः
ख्यातः सप्तसमुद्रकूपसहितो देयात्सदा मंगलम् ॥ 13॥

लक्ष्यीनायकबिंदुमाधवहरिर्लक्ष्मीनृसिंहस्ततो
गोविंदस्त्वथ गोपिकाप्रियतमः श्रीनारदः केशवः ।
गंगाकेशववामनाख्यतदनु श्वेतो हरिः केशवः
प्रह्लादादिसमस्तकेशवगणो देयात्सदा मंगलम् ॥ 14॥

लोलार्को विमलार्कमायुखरविः संवर्तसंज्ञो रवि-
र्विख्यातो द्रुपदुःखखोल्कमरुणः प्रोक्तोत्तरार्को रविः ।
गंगार्कस्त्वथ वृद्धवृद्धिविबुधा काशीपुरीसंस्थिताः
सूर्या द्वादशसंज्ञकाः प्रतिदिनं देयात्सदा मंगलम् ॥ 15॥

आद्यो ढुंढिविनायको गणपतिश्चिंतामणिः सिद्धिदः
सेनाविघ्नपतिस्तु वक्त्रवदनः श्रीपाशपाणिः प्रभुः ।
आशापक्षविनायकाप्रषकरो मोदादिकः षड्गुणो
लोलार्कादिविनायकाः प्रतिदिनं देयात्सदा मंगलम् ॥ 16॥।

हेरंबो नलकूबरो गणपतिः श्रीभीमचंडीगणो
विख्यातो मणिकर्णिकागणपतिः श्रीसिद्धिदो विघ्नपः ।
मुंडश्चंडमुखश्च कष्टहरणः श्रीदंडहस्तो गणः
श्रीदुर्गाख्यगणाधिपः प्रतिदिनं देयात्सदा मंगलम् ॥ 17॥

आद्यो भैरवभीषणस्तदपरः श्रीकालराजः क्रमा-
च्छ्रीसंहारकभैरवस्त्वथ रुरुश्चोन्मत्तको भैरवः ।
क्रोधश्चंडकपालभैरववरः श्रीभूतनाथादयो
ह्यष्टौ भैरवमूर्तयः प्रतिदिनं देयात्सदा मंगलम् ॥ 18॥

आधातोऽंबिकया सह त्रिनयनः सार्धं गणैर्नंदितां
काशीमाशु विशन् हरः प्रथमतो वार्षध्वजेऽवस्थितः ।
आयाता दश धेनवः सुकपिला दिव्यैः पयोभिर्हरं
ख्यातं तद्वृषभध्वजेन कपिलं देयात्सदा मंगलम् ॥ 19॥

आनंदाख्यवनं हि चंपकवनं श्रीनैमिषं खांडवं
पुण्यं चैत्ररथं त्वशाकविपिनं रंभावनं पावनम् ।
दुर्गारण्यमथोऽपि कैरववनं वृंदावनं पावनं
विख्यातानि वनानि वः प्रतिदिनं देयात्सदा मंगलम् ॥ 20॥

अलिकुलदलनीलः कालदंष्ट्राकरालः
सजलजलदनीलो व्यालयज्ञोपवीतः ।
अभयवरदहस्तो डामरोद्दामनादः
सकलदुरितभक्षो मंगलं वो ददातु ॥ 21॥

अर्धांगे विकटा गिरींद्रतनया गौरी सती सुंदरी
सर्वांगे विलसद्विभूतिधवलो कालो विशालेक्षणः ।
वीरेशः सहनंदिभृंगिसहितः श्रीविश्वनाथः प्रभुः
काशीमंदिरसंस्थितोऽखिलगुरुर्देयात्सदा मंगलम् ॥ 22॥

यः प्रातः प्रयतः प्रसन्नमनसा प्रेमप्रमोदाकुलः
ख्यातं तत्र विशिष्टपादभुवनेशेंद्रादिभिर्यत्स्तुतम् ।
प्रातः प्राङ्मुखमासनोत्तमगतो ब्रूयाच्छृणोत्यादरात्
काशीवासमुखान्यवाप्य सततं प्रीते शिवे धूर्जटि ॥ 23॥

इति श्रीमच्छंकराचार्यविरचितं काशीविश्वनाथस्तोत्रम् ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *