द्वादश ज्योतिर्लिंग स्तोत्रम् | Dwadash Jyotirlinga Stotram In Marathi

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चंद्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1॥

श्रीशैलश‍ऋंगे विबुधातिसंगे तुलाद्रितुंगेऽपि मुदा वसंतम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ 2॥

अवंतिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वंदे महाकालमहासुरेशम् ॥ 3॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैवमांधातृपुरे वसंतमोंकारमीशं शिवमेकमीडे ॥ 4॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसंतं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5॥

याम्ये सदंगे नगरेऽतिरम्ये विभूषितांगं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ 6॥

महाद्रिपार्श्वे च तटे रमंतं संपूज्यमानं सततं मुनींद्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ 7॥

सह्याद्रिशीर्षे विमले वसंतं गोदावरितीरपवित्रदेशे ।
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यंबकमीशमीडे ॥ 8॥

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचंद्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ 9॥

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्दं तं शंकरं भक्तहितं नमामि ॥ 10॥

सानंदमानंदवने वसंतमानंदकंदं हतपापवृंदम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 11॥

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसंतं च जगद्वरेण्यम् ।
वंदे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ 12॥

ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥

॥ इति श्रीमद्शंकराचार्यविरचितं
द्वादशज्योतिर्लिंगस्तोत्रं संपूर्णम् ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *