तैत्तिरीय उपनिषद् – भृगुवल्ली | Taittiriya Upanishad Bruguvalli In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

(तै.आ.9.1.1)

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

भृगु॒र्वै वा॑रु॒णिः । वरु॑ण॒-म्पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच । अन्न॑-म्प्रा॒ण-ञ्चक्षु॒श्श्रोत्र॒-म्मनो॒ वाच॒मिति॑ । तग्ं हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्ति । यत्प्रय॑न्त्य॒भिसं​विँ॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा ॥ 1 ॥
इति प्रथमो-ऽनुवाकः ॥

अन्न॒-म्ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भुता॑नि॒ जाय॑न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । अन्न॒-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा ॥ 1 ॥
इति द्वितीयो-ऽनुवाकः ॥

प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति । प्रा॒ण-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा ॥ 1 ॥
इति तृतीयो-ऽनुवाकः ॥

मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति । मनः॒ प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा ॥ 1 ॥
इति चतुर्थो-ऽनुवाकः ॥

वि॒ज्ञान॒-म्ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति । वि॒ज्ञान॒-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा ॥ 1 ॥
इति पञ्चमो-ऽनुवाकः ॥

आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । आ॒न॒न्द-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ । सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता । स य ए॒वं-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ 1 ॥
इति षष्ठो-ऽनुवाकः ॥

अन्न॒-न्न नि॑न्द्यात् । तद्व्र॒तम् । प्रा॒णो वा अन्नम्᳚ । शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑र॒-म्प्रति॑ष्ठितम् । शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ 1 ॥
इति सप्तमो-ऽनुवाकः ॥

अन्न॒-न्न परि॑चक्षीत । तद्व्र॒तम् । आपो॒ वा अन्नम्᳚ । ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम् । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । महा॒न्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ 1 ॥
इत्यष्टमो-ऽनुवाकः ॥

अन्न॑-म्ब॒हु कु॑र्वीत । तद्व्र॒तम् । पृ॒थि॒वी वा अन्नम्᳚ । आ॒का॒शो᳚-ऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः । आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ 1 ॥
इति नवमो-ऽनुवाकः ॥

न कञ्चन वसतौ प्रत्या॑चक्षी॒त । तद्व्र॒तम् । तस्माद्यया कया च विधया बह्व॑न्न-म्प्रा॒प्नुयात् । अराध्यस्मा अन्नमि॑त्याच॒क्षते । एतद्वै मुखतो᳚-ऽन्नग्ं रा॒द्धम् । मुखतो-ऽस्मा अ॑न्नग्ं रा॒ध्यते । एतद्वै मध्यतो᳚-ऽन्नग्ं रा॒द्धम् । मध्यतो-ऽस्मा अ॑न्नग्ं रा॒ध्यते । एतद्वा अन्ततो᳚-ऽन्नग्ं रा॒द्धम् । अन्ततो-ऽस्मा अ॑न्नग्ं रा॒ध्यते ॥ 1 ॥
य ए॑वं-वेँ॒द । क्षेम इ॑ति वा॒चि । योगक्षेम इति प्रा॑णापा॒नयोः । कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ । इति मानुषी᳚स्समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ । बलमि॑ति वि॒द्युति ॥ 2 ॥
यश इ॑ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु । प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे । तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान्भ॒वति । तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त । मान॑वान्भ॒वति ॥ 3 ॥
तन्नम इत्यु॑पासी॒त । नम्यन्ते᳚-ऽस्मै का॒माः । तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति । तद्ब्रह्मणः परिमर इत्यु॑पासी॒त । पर्येण-म्म्रियन्ते द्विषन्त॑स्सप॒त्नाः । परि ये᳚-ऽप्रिया᳚ भ्रातृ॒व्याः । स यश्चा॑य-म्पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ ॥ 4 ॥
स य॑ एवं॒-विँत् । अस्मां​ल्लोँ॑कात्प्रे॒त्य । एतमन्नमय-मात्मानमुप॑सङ्क्र॒म्य । एत-म्प्राणमय-मात्मानमुप॑सङ्क्र॒म्य । एत-म्मनोमय-मात्मानमुप॑सङ्क्र॒म्य । एतं-विँज्ञानमय-मात्मानमुप॑सङ्क्र॒म्य । एतमानन्दमय-मात्मानमुप॑सङ्क्र॒म्य । इमां​ल्लोँकन्कामान्नी -कामरूप्य॑नु-स॒ञ्चरन्न् । एतथ्साम गा॑यन्ना॒स्ते । हा(3) वु॒ हा(3) वु॒ हा(3) वु॑ ॥ 5 ॥
अ॒हमन्न-म॒हमन्न-म॒हमन्नम् । अ॒हमन्ना॒दो(3)-ऽ॒हमन्ना॒दो(3)-ऽ॒हमन्ना॒दः । अ॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृत् । अ॒हमस्मि प्रथमजा ऋता(3) स्य॒ । पूर्व-न्देवेभ्यो अमृतस्य ना(3) भा॒यि॒ । यो मा ददाति स इदेव मा(3) वाः॒ । अ॒हमन्न॒-मन्न॑-म॒दन्त॒मा(3) द्मि॒ । अहं॒-विँश्व॒-म्भुव॑न॒-मभ्य॑भ॒वाम् । सुव॒र्न ज्योतीः᳚ । य ए॒वं-वेँद॑ । इत्यु॑प॒निष॑त् ॥ 6 ॥
इति दशमो-ऽनुवाकः ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

॥ हरिः॑ ओम् ॥
॥ श्री कृष्णार्पणमस्तु ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *