पुरुष सूक्तम् | Purusha Suktam In Hindi
Also Read This In:- Bengali, English, Gujarati, Kannada, Malayalam, Marathi, Odia, Sanskrit, Tamil, Telugu.
ओं तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ ।
गा॒तुं य॒ज्ञप॑तये । दैवी: स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे । शं चतु॑ष्पदे ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥
ओं स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
पुरु॑ष ए॒वेदग्ं सर्वम् । यद्भू॒तं यच्च॒ भव्यम् ।
उ॒तामृ॑त॒त्वस्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति ।
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ॥ १ ॥
पादोस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादोस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि । तस्माद्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ २ ॥
यत्पुरु॑षेण ह॒विषा । दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्। ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
स॒प्तास्या॑सन्परि॒धय॑: । त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ।
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ॥ ३ ॥
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ।
तस्माद्य॒ज्ञात्स॑र्व॒हुत॑: । सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
तस्माद्य॒ज्ञात्स॑र्व॒हुत॑: । ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मात् । यजु॒स्तस्मा॑दजायत ॥ ४ ॥
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मात् । तस्माज्जा॒ता अ॑जा॒वय॑: ।
यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ।
ब्रा॒ह्म॒णोस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्य॑: कृ॒तः ॥ ५ ॥
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: । प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ।
नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रात् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ॥ ६ ॥
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम् ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते ।
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑: सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥ ७ ॥
अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसाच्च ।
वि॒श्वक॑र्मण॒: सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति ।
तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे ।
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम् ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒: पर॑स्तात् ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॑ विद्य॒तेय॑ऽनाय ।
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः ।
अ॒जाय॑मानो बहु॒धा विजा॑यते ॥ ८ ॥
तस्य॒ धीरा॒: परि॑जानन्ति॒ योनिम् ।
मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: ।
यो दे॒वेभ्य॒ आत॑पति ।
यो दे॒वानां पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः ।
नमो॑ रु॒चाय॒ ब्राह्म॑ये ।
रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः ।
दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्राह्म॒णो वि॒द्यात् ।
तस्य॑ दे॒वा अस॒न् वशे ॥ ९ ॥
ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्_न्यौ ।
अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् ।
अ॒श्विनौ॒ व्यात्तम् । इ॒ष्टं म॑निषाण ।
अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥ १० ॥
ओं तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ ।
गा॒तुं य॒ज्ञप॑तये । दैवी: स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे । शं चतु॑ष्पदे ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥