अच्युताष्टकम् | Achyutashtakam In Hindi
Also Read This In:- Bengali, English, Gujarati, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.
अच्युतं केशवं राम नारायणं
कृष्ण दामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे ॥ १ ॥
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाऽराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे ॥ २ ॥
विष्णवे जिष्णवे शङ्खिने चक्रिणे
रुक्मिणीरागिणे जानकीजानये ।
वल्लवीवल्लभायाऽर्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥ ३ ॥
कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥
राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणम् ।
लक्ष्मणेनान्वितो वानरैस्सेवितो-
ऽगस्त्यसम्पूजितो राघवः पातु माम् ॥ ५ ॥
धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां
केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो
बालगोपालकः पातु मां सर्वदा ॥ ६ ॥
विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरस्स्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ ७ ॥
कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे ॥ ८ ॥
अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततस्सुन्दरं वेद्य विश्वम्भरं
तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥
इति श्रीमदच्युताष्टकम् ।