तैत्तिरीय उपनिषद् – आनन्दवल्ली | Taittiriya Upanishad Anandavalli In Sanskrit

Also Read This In:- English, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Tamil, Telugu.

(तै. आ. 8-1-1)

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

ब्र॒ह्म॒विदा᳚प्नोति॒ परम्᳚ । तदे॒षा-ऽभ्यु॑क्ता । स॒त्य-ञ्ज्ञा॒नम॑न॒न्त-म्ब्रह्म॑ । यो वेद॒ निहि॑त॒-ङ्गुहा॒या-म्पर॒मे व्यो॑मन्न् । सो᳚-ऽश्नु॒ते सर्वा॒न्कामा᳚न्​थ्स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ ॥ तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शस्सम्भू॑तः । आ॒का॒शाद्वा॒युः । वा॒योर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्यो-ऽन्नम्᳚ । अन्ना॒त्पुरु॑षः । स वा एष पुरुषो-ऽन्न॑रस॒मयः । तस्येद॑मेव॒ शिरः । अय-न्दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । अयमात्मा᳚ । इद-म्पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति प्रथमो-ऽनुवाकः ॥

अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीग् श्रि॒ताः । अथो॒ अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑ यन्त्यन्त॒तः । अन्न॒ग्ं॒ हि भू॒ताना॒-ञ्ज्येष्ठम्᳚ । तस्मा᳚थ्सर्वौष॒धमु॑च्यते । सर्वं॒-वैँ ते-ऽन्न॑माप्नुवन्ति । ये-ऽन्न॒-म्ब्रह्मो॒पास॑ते । अन्न॒ग्ं॒ हि भू॒ताना॒-ञ्ज्येष्ठम्᳚ । तस्मा᳚थ्सर्वौष॒धमु॑च्यते । अन्ना᳚द्भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्धन्ते । अद्यते-ऽत्ति च॑ भूता॒नि । तस्मादन्न-न्तदुच्य॑त इ॒ति । तस्माद्वा एतस्मादन्न॑रस॒मयात् । अन्यो-ऽन्तर आत्मा᳚ प्राण॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य प्राण॑ एव॒ शिरः । व्यानो दक्षि॑णः प॒क्षः । अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । पृथिवी पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति द्वितीयो-ऽनुवाकः ॥

प्रा॒ण-न्दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्याः᳚ प॒शव॑श्च॒ ये । प्रा॒णो हि भू॒ताना॒मायुः॑ । तस्मा᳚थ्सर्वायु॒षमु॑च्यते । सर्व॑मे॒व त॒ आयु॑र्यन्ति । ये प्रा॒ण-म्ब्रह्मो॒पास॑ते । प्राणो हि भूता॑नामा॒युः । तस्माथ्सर्वायुषमुच्य॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा᳚त्प्राण॒मयात् । अन्यो-ऽन्तर आत्मा॑ मनो॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य यजु॑रेव॒ शिरः । ऋग्दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः । आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति तृतीयो-ऽनुवाकः ॥

यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्द-म्ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा᳚न्मनो॒मयात् । अन्यो-ऽन्तर आत्मा वि॑ज्ञान॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य श्र॑द्धैव॒ शिरः । ऋत-न्दक्षि॑णः प॒क्षः । सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति चतुर्थो-ऽनुवाकः ॥

वि॒ज्ञानं॑-यँ॒ज्ञ-न्त॑नुते । कर्मा॑णि तनु॒ते-ऽपि॑ च । वि॒ज्ञान॑-न्दे॒वास्सर्वे᳚ । ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञान॒-म्ब्रह्म॒ चेद्वेद॑ । तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा । सर्वान्कामान्​थ्समश्नु॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात् । अन्यो-ऽन्तर आत्मा॑-ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य प्रिय॑मेव॒ शिरः । मोदो दक्षि॑णः प॒क्षः । प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति पञ्चमो-ऽनुवाकः ॥

अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । अस्ति ब्रह्मेति॑ चेद्वे॒द । सन्तमेन-न्ततो वि॑दुरि॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । अथातो॑-ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं-लोँ॒क-म्प्रेत्य॑ । कश्च॒न ग॑च्छ॒ती(3) । आहो॑ वि॒द्वान॒मुं-लोँ॒क-म्प्रेत्य॑ । कश्चि॒थ्सम॑श्नु॒ता(3) उ॒ । सो॑-ऽकामयत । ब॒हुस्या॒-म्प्रजा॑ये॒येति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा । इ॒दग्ं सर्व॑मसृजत । यदि॒द-ङ्किञ्च॑ । तथ्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नु प्र॒विश्य॑ । सच्च॒ त्यच्चा॑भवत् । नि॒रुक्त॒-ञ्चानि॑रुक्त-ञ्च । नि॒लय॑न॒-ञ्चानि॑लयन-ञ्च । वि॒ज्ञान॒-ञ्चावि॑ज्ञान-ञ्च । सत्य-ञ्चानृत-ञ्च स॑त्यम॒भवत् । यदि॑द-ङ्कि॒ञ्च । तत्सत्यमि॑त्याच॒क्षते । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति षष्ठो-ऽनुवाकः ॥

अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत । तदात्मानग्ग् स्वय॑मकु॒रुत । तस्मात्तथ्सुकृतमुच्य॑त इ॒ति । यद्वै॑ तथ्सु॒कृतम् । र॑सो वै॒ सः । रसग्ग् ह्येवायं-लँब्ध्वा-ऽऽन॑न्दी भ॒वति । को ह्येवान्या᳚त्कः प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् । एष ह्येवा-ऽऽन॑न्दया॒ति । य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्ये-ऽनात्म्ये-ऽनिरुक्ते-ऽनिलयने-ऽभयं
प्रति॑ष्ठां-विँ॒न्दते । अथ सो-ऽभय-ङ्ग॑तो भ॒वति । य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑र-ङ्कु॒रुते । अथ तस्य भ॑य-म्भ॒वति । तत्त्वेव भयं-विँदुषो-ऽम॑न्वान॒स्य । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति सप्तमो-ऽनुवाकः ॥

भी॒षा-ऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषा-ऽस्मादग्नि॑श्चेन्द्र॒श्च । मृत्युर्धावति पञ्च॑म इ॒ति । सैषा-ऽऽनन्दस्य मीमाग्ं॑सा भ॒वति । युवा स्याथ्साधुयु॑वा-ऽध्या॒यकः । आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः । तस्येय-म्पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् । स एको मानुष॑ आन॒न्दः । ते ये शत-म्मानुषा॑ आन॒न्दाः ॥ 1 ॥
स एको मनुष्यगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्मनुष्यगन्धर्वाणा॑मान॒न्दाः । स एको देवगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-न्देवगन्धर्वाणा॑मान॒न्दाः । स एकः पितृणा-ञ्चिरलोकलोकाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्पितृणा-ञ्चिरलोकलोकाना॑मान॒न्दाः । स एक आजानजाना-न्देवाना॑मान॒न्दः ॥ 2 ॥
श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमाजानजाना-न्देवाना॑मान॒न्दाः । स एकः कर्मदेवाना-न्देवाना॑मान॒न्दः । ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-ङ्कर्मदेवाना-न्देवाना॑मान॒न्दाः । स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-न्देवाना॑मान॒न्दाः । स एक इन्द्र॑स्या-ऽऽन॒न्दः ॥ 3 ॥
श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमिन्द्र॑स्या-ऽऽन॒न्दाः । स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्बृहस्पते॑रान॒न्दाः । स एकः प्रजापते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्प्रजापते॑रान॒न्दाः । स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ 4 ॥
स यश्चा॑य-म्पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । स य॑ एवं॒​विँत् । अस्माल्लो॑कात्प्रे॒त्य । एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति । एत-म्प्राणमयमात्मानमुप॑सङ्क्रा॒मति । एत-म्मनोमयमात्मानमुप॑सङ्क्रा॒मति । एतं-विँज्ञानमयमात्मानमुप॑सङ्क्रा॒मति । एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति । तदप्येष श्लो॑को भ॒वति ॥ 5 ॥
इत्यष्टमो-ऽनुवाकः ॥

यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्द-म्ब्रह्म॑णो वि॒द्वान् । न बिभेति कुत॑श्चने॒ति । एतग्ं ह वाव॑ न त॒पति । किमहग्ं साधु॑ नाक॒रवम् । किमह-म्पापमकर॑वमि॒ति । स य एवं-विँद्वानेते आत्मा॑नग्ग् स्पृ॒णुते । उ॒भे ह्ये॑वैष॒ एते आत्मा॑नग्ग् स्पृ॒णुते । य ए॒वं-वेँद॑ । इत्यु॑प॒निष॑त् ॥ 1 ॥
इति नवमो-ऽनुवाकः ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

॥ हरिः॑ ओम् ॥
॥ श्री कृष्णार्पणमस्तु ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *