ऋण मोचक मंगल स्तोत्र | Runa Vimochana Angaraka Stotram In Hindi 

Also Read This In:- English, Kannada, Tamil, Telugu.

स्कन्द उवाच ।

ऋणग्रस्त नराणान्तु ऋणमुक्तिः कथं भवेत् ।

ब्रह्मोवाच ।

वक्ष्येहं सर्वलोकानां हितार्थं हितकामदम् ।

अस्य श्री अङ्गारक स्तोत्र महामन्त्रस्य गौतम ऋषिः अनुष्टुप् छन्दः अङ्गारको देवता मम ऋण विमोचनार्थे जपे विनियोगः ।

ध्यानम् ।

रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ 1 ॥

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायो सर्वकामफलप्रदः ॥ 2 ॥

लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूमिजो भूमिनन्दनः ॥ 3 ॥

अङ्गारको यमश्चैव सर्वरोगापहारकः ।
सृष्टेः कर्ता च हर्ता च सर्वदेवैश्चपूजितः ॥ 4 ॥

एतानि कुज नामानि नित्यं यः प्रयतः पठेत् ।
ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयः ॥ 5 ॥

अङ्गारक महीपुत्र भगवन् भक्तवत्सलः ।
नमोऽस्तु ते ममाऽशेष ऋणमाशु विनाशय ॥ 6 ॥

रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदकैः ।
मङ्गलं पूजयित्वा तु मङ्गलाहनि सर्वदा ॥ 7 ॥

एकविंशति नामानि पठित्वा तु तदन्तिके ।
ऋणरेखाः प्रकर्तव्याः अङ्गारेण तदग्रतः ॥ 8 ॥

ताश्च प्रमार्जयेत्पश्चात् वामपादेन संस्पृशत् ।

मूलमन्त्रः ।

अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
नमोऽस्तुते ममाशेषऋणमाशु विमोचय ॥

एवं कृते न सन्देहो ऋणं हित्वा धनी भवेत् ।
महतीं श्रियमाप्नोति ह्यपरो धनदो यथा ॥

अर्घ्यम् ।
अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
नमोऽस्तुते ममाशेषऋणमाशु विमोचय ॥

भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
ऋणार्तस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *